This page has not been fully proofread.

याह्लादकारित्वाद्भगवन्महिमतत्त्वपरिज्ञानानपेक्षणेऽपि काव्य-
सरणौ तन्मात्रापेक्षणादित्याशङ्कय स्वस्य तथाभूतप्रतिभारा-
हित्यरूपं कवितामान्द्यं स्वाभिलषितफलसाधने भगवद्विग्रहव-
र्णने साधकमेव न तु बाधकमित्येतदुपपादयति —
मन्ये सृजन्त्वभिनुतिं कविपुंगवास्ते
तेभ्यो रमारमण मादृश एव धन्यः ।
त्वद्वर्णने धृतरसः कवितातिमान्या
व्यस्तत्तदङ्गचिरचिन्तन भाग्यमेति ॥ ५॥
 
१२
 
हे रमारमण कविपुंगवाः कविश्रेष्ठा महाकवयः ।
• श्रेष्ठोक्षाणौ तु पुंगवौ' इति वैजयन्ती । तवाभिनुतिं स्तोत्रं
सृजन्तु शब्दतोऽर्थतश्च महाप्रबन्धरूपं स्तोत्रं निर्मिमताम् ।
प्रैषातिसर्गप्राप्तकालेषु कृत्याञ्च' इत्यतिसर्गे लोट् । अति-
सर्गः कामचाराभ्यनुज्ञानम् । तेभ्यो महाकविभ्यो माशो
मन्द एव धन्यः सुकृती स्वाभिलषितफलरूपं धनं लब्धा वा
इति मन्ये । मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका'
इत्यत्रेवेह मन्ये - शब्दः संभावनामात्रपरः, न तु प्रौढोक्तिक-
ल्पितार्थविषयसंभावनारूपोत्प्रेक्षापरः, इह तद्‌द्भावात् । यो '
मादृशः त्वद्वर्णने धृतरसो धृतादरः कविताया अतिमान्द्या-
त्वरितं स्तोत्रं निर्मातुमशक्नुवन् तत्तदङ्गचिरचिन्तनभाग्यम्
 
.
 
6
 
!