This page has been fully proofread once and needs a second look.

११
 
तथापीत्यनेनावि-
भावध्वनिः । देवतागुरुनृपादिष्वभिव्यज्यमाना रतिर्भाव इत्यु -

च्यते । स्तोत्रनिर्माणप्रतिबन्धकलोकापहासे
तथापीत्यनेनावि-
ष्
कृते सत्यपि स्तोत्रनिर्माणरूपकार्योत्पत्तिनिबन्धनाद्विभावना-

विशेषोऽलंकारः सत्यपि प्रतिबन्धके कार्योत्पत्त्यनुकूलमुत्तेजकं

स्वस्य कविताद्यभिमानरूपममताशून्यत्वमित्येतन्निर्ममलोकसे-
ब्

व्
यामिति विशेषणेन भगवतो निर्ममप्रियत्वाभिव्यक्त्या यथा-

कथंचिद्भगवतः स्तवेनापि स्वाभिमतफलावश्यंभावनिश्चयाभि-

प्रायगर्भेण व्यञ्जितमिति परिकरालंकार इत्येतयोः संकरः ।
रम

रत्न
भूषां मूर्तिमित्यत्र रूपकेण तयोः संसृष्टि: ' कार्योत्पत्तिस्तृ-

तीया स्यात्सत्यपि प्रतिबन्धके । नरेन्द्रानेव ते राजन्दशत्य-

सिभुजंगमः ॥' इति तृतीयविभावनाया लक्षणोदाहरणे ।

' अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तं-

सस्तापं हरतु वः शिवः ॥ वर्ण्यं विषयिरूपेण गद्यते यदि

रूपकम् । पद्मं तन्वङ्गि ते नेत्रं मुखं ते चन्द्रमण्डलम् ॥

इति परिक रूपकयोर्लक्षणोदाहरणानि । निर्मम इत्यत्ल मम -
र मम -
शब्दे
नाव्ययेन ममतारूपाभिमानविशेषपरेण निरित्युपसर्गस्य
 

समासः ॥ ४ ॥
 

 
ननु तथापि वर्णयितुं धृताभिलाषोऽस्मीत्ययुक्तम्, 'प्रज्ञां
अपनबो

नवनवो
न्मेषशालिनीं प्रतिभां विदुः' इत्युक्तलक्षणप्रज्ञाविशे-
प्र

भूषितशेमुषीकैर्महाकविभिः कृतस्यैव वर्णनस्य सहृदयहृद-