This page has not been fully proofread.

११
 
तथापीत्यनेनावि-
भावध्वनिः । देवतागुरुनृपादिष्वभिव्यज्यमाना रतिर्भाव इत्यु -
च्यते । स्तोत्रनिर्माणप्रतिबन्धकलोकापहासे
कृते सत्यपि स्तोत्रनिर्माणरूपकार्योत्पत्तिनिबन्धनाद्विभावना-
विशेषोऽलंकारः सत्यपि प्रतिबन्धके कार्योत्पत्त्यनुकूलमुत्तेजकं
स्वस्य कविताद्यभिमानरूपममताशून्यत्वमित्येतन्निर्ममलोकसे-
ब्यामिति विशेषणेन भगवतो निर्ममप्रियत्वाभिव्यक्त्या यथा-
कथंचिद्भगवतः स्तवेनापि स्वाभिमतफलावश्यंभावनिश्चयाभि-
प्रायगर्भेण व्यञ्जितमिति परिकरालंकार इत्येतयोः संकरः ।
रमभूषां मूर्तिमित्यत्र रूपकेण तयोः संसृष्टि: ' कार्योत्पत्तिस्तृ-
तीया स्यात्सत्यपि प्रतिबन्धके । नरेन्द्रानेव ते राजन्दशत्य-
सिभुजंगमः ॥' इति तृतीयविभावनाया लक्षणोदाहरणे ।
' अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तं-
सस्तापं हरतु वः शिवः ॥ वर्ण्य विषयिरूपेण गद्यते यदि
रूपकम् । पद्मं तन्वङ्गि ते नेत्रं मुखं ते चन्द्रमण्डलम् ॥
इति परिक रूपकयोर्लक्षणोदाहरणानि । निर्मम इत्यत्ल मम -
नाव्ययेन ममतारूपाभिमानविशेषपरेण निरित्युपसर्गस्य
 
समासः ॥ ४ ॥
 
ननु तथापि वर्णयितुं धृताभिलाषोऽस्मीत्ययुक्तम्, 'प्रज्ञां
अपनबोन्मेषशालिनीं प्रतिभां विदुः' इत्युक्तलक्षणप्रज्ञाविशे-
प्रभूषितशेमुषीकैर्महाकविभिः कृतस्यैव वर्णनस्य सहृदयहृद-