This page has been fully proofread once and needs a second look.

त्पलद्वन्द्वान्निः सरन्ति शिताः शराः ॥' इति रूपकातिशयो-
क्तिलक्षणोदाहरणे । अधिष्ठानस्य स्वशब्देन ग्रहणं विना
तस्मिन्नारोप्यस्य वाचकेनैव ग्रहणं निगरणम् । तत्पूर्वकमधि-
ष्ठानस्यारोप्यरूपतयाध्यवसानमाहार्यनिश्चयः । तस्मिन्सति
रूपकातिशयोक्तिरिति लक्षणार्थः ॥ ३ ॥
 
अथ कृतस्याक्षेपस्य समाधानम्--
 
नेतस्तथापि तव निर्ममलोकसेव्यां
मूर्तिं मदावलमहीधररत्नभूषाम् ।
वैकुण्ठ वर्णयितुमस्मि घृताभिलाष-
स्त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४ ॥
 
हे नेतः प्रभो वैकुण्ठ, तथापि इत्थं हास्यो भविष्यन्नपि
निर्ममलोकसेव्यां निरहंकारजनसेवनीयां मदावलमहीधररत्न-
भूषां हस्तिगिरिशिखरमाणभूषायमाणां तव मूर्तिं त्वन्नाम-
रूपगुणचिन्तनलाभलोभात् स्तोत्ररचनाकाले तव नाम्नो रूपस्य
विग्रहस्य गुणानां च चिन्तनं लप्स्यत इति लोभात् वर्णयितुं
घृताभिलाषोऽस्मि । स्वयं कविरित्यभिमानवता अहंकारिणा
खल्वपहासः परिहरणीयः । निरहंकारस्य भगवन्नामादिचि-
न्तनमेव फलमर्थयमानस्य लौकिकापहासः किं करिष्यतीति
भावः । अनेन भगवद्विषया भक्तिरूपा रतिरभिव्यज्यत इति