This page has not been fully proofread.

ܘ ܐ
 
त्पलद्वन्द्वान्निः सरन्ति शिताः शराः ॥' इति रूपकातिशयो-
क्तिलक्षणोदाहरणे । अधिष्ठानस्य स्वशब्देन ग्रहणं विना
तस्मिन्नारोप्यस्य वाचकेनैव ग्रहणं निगरणम् । तत्पूर्वकमधि-
ष्ठानस्यारोप्य रूपतयाध्यवसानमाहार्यनिश्चयः । तस्मिन्स ति
रूपकातिशयोक्तिरिति लक्षणार्थः ॥ ३ ॥
अथ कृतस्याक्षेपस्य समाधानम्-
नेतस्तथापि तव निर्ममलोकसेव्यां
मूर्ति मदावलमहीधररत्नभूषाम् ।
वैकुण्ठ वर्णयितुमस्मि घृताभिलाष
स्त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४ ॥
 
हे नेतः प्रभो वैकुण्ठ तथापि इत्थं हास्यो भविष्यन्नपि
निर्ममलोकसेव्यां निरहंकारजनसेवनीयां मदावलमहीधररत्न-
भूषां हस्तिगिरिशिखरमाणभूषायमाणां तव मूर्ति त्वन्नाम-
रूपगुणचिन्तनलाभलोभात् स्तोत्ररचनाकाले तव नाम्नो रूपस्य
विग्रहस्य गुणानां च चिन्तनं लप्स्यत इति लोभात् वर्णयितुं
घृताभिलाषोऽस्मि । स्वयं कविरित्यभिमानवता अहंकारिणा
खल्वपहासः परिहरणीयः । निरहंकारस्य भगवन्नामादिचि-
न्तनमेव फलमर्थयमानस्य लौकिकापहासः किं करिष्यतीति
भावः । अनेन भगवद्विषया भक्तिरूपा रतिरभिव्यज्यत इति
 
.