This page has not been fully proofread.

हे भगवन् षाड्गुण्यपरिपूर्ण परमपूरुष, ते तव महिम्नः
 
परं पारं जातो जनिष्यमाणश्च देवासुरमनुष्यादिषु कोऽपि न
बत्ति न जानाति । अतः कैमुतिकन्यायेन मनुष्यबुद्धिदूरतरस्य
तस्य तथाभूतमहिमशालिनस्तव स्तुतौ तरङ्गितसाहसिक्यो
जृम्भितसाहसो मादृशः मनुष्येष्वपि प्रहीणो मद्विधः बुधज-
नस्य प्रेक्षावल्लोकस्य तव महिमानं देवा अपि न जानन्तीति
बुध्यमानस्य हास्यो न भवेत्किम् ? हास्यो भवेदेवेति संभाव-
नायां लिङ् । अबुधजनस्येति वा पदविभागः । बुधजन: ' स
वाग्विसर्गो जनताघ विप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि' इति
लोकार्थ बुध्यमानो यथाकथंचिदपि स्तुवन्तं प्रशंसेदेव । तस्मा-
दिममर्थमबुध्यमानस्य तव महिमा वाङ्मनसातीत इत्येतावज्जा-
नतो हास्य एव भवेदित्यर्थः । अत्र कैमुतिकन्यायप्रत्यायनादर्था-
पत्तिरलंकारः । कैमुतिकन्यायेन पूर्ववाक्यार्थस्य माहश इत्या-
गुन्तरवाक्यार्थ प्रति हेतुत्वाद्वाक्यार्थहेतुकं काव्यालङ्गमलंकारः ।
सम्मात्तस्य तेन संकरः । कैमुत्येनार्थसंसिद्धिः काव्यार्थाप-
यस जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरु-
Bाम् ॥ हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् । जितोऽसि
म कन्दर्प मञ्चित्तेऽस्ति त्रिलोचन: ॥ जीयादम्बुधितनयाध-
रममास्वादयन्मुराराति: । अम्बुधिमथनक्लेशं कलय सफलं
विफलं च ॥ ' इति तेषां लक्षणोदाहरणानि । एकत्र नि-
÷