This page has been fully proofread once and needs a second look.

- माधव: पायात्स यो-गङ्गामधिदीधरत् ॥' इति दर्शितालंका-

राणां लक्षणोदाहरणानि । हृदयाब्जकोशमित्यत्र प्रकृतार्थे

अब्जस्य कोशमिति षष्ठीसमासः ; एकस्यैव मुकुलविकसिता-

वस्थाभेदेन भेदोपचारात्षष्ठ्युपपत्तिः, अब्जमेव कोशमिति

समानाधिकरणसमासो वा; हृदयमब्जकोशमिवेति पुन -

रुपमितसमास:, ' पद्मकोशप्रतीकाशं हृदयं चाप्यधाधोमुखम्'

इति श्रुतेः । अप्रकृतार्थे हृदयाब्जसदृशं कोशमिति शाक-

पार्थिवादिसमास: । योगकलयेत्यत्र विषयविशेषे चित्तैका-

व्यरूपस्य योगस्याङ्गे प्राणायामे योगशब्दस्य कोशशब्दस्य

धनराशिवाचिनो धनागारे च निरूढा लक्षणा ।

संननोपायध्यानसंगतियुक्तिषु' इति · कोशोऽस्त्री कुडूमले

खड्गपिधानेऽर्थौघदिव्ययोः' इति चामरसिंहः । शश्वच्छ-

ब्दस्य ' पुन:सदार्थयोः शश्वत्' इत्यर्थद्वयेऽनुशिष्टत्वात्प्रकृते

ऽर्थे सदार्थवृत्तेरप्रकृतेऽर्थे पौनःपुन्यवृत्तेश्च ततस्तद्धितः । वस-

न्ततिलका वृत्तम् ।' उक्ता वसन्ततिलका तभजा जगौ गः '

इति तल्लक्षणम् ॥ १ ॥
 

 
:
 

 
योगः
 

 
जातो न वेत्ति भगवन्न जनिष्यमाणः

पारं परं परमपूरुष ते महिम्नः ।

तय स्तुतौ तव तरङ्गितसाहसिक्यः
 

 
किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २ ॥
 

 
1