This page has not been fully proofread.

- माधव: पायात्स योगङ्गामधिरत् ॥' इति दर्शितालंका-
राणां लक्षणोदाहरणानि । हृदयाब्जकोशमित्यत्र प्रकृतार्थे
अब्जस्य कोशमिति षष्ठीसमासः; एकस्यैव मुकुलविकसिता-
वस्थाभेदेन भेदोपचारात्षष्ठ्युपपत्तिः, अब्जमेव कोशमिति
समानाधिकरणसमासो वा; हृदयमब्जकोशमिवेति पुन -
रुपमितसमास:, ' पद्मकोशप्रतीकाशं हृदयं चाप्यधामुखम्'
इति श्रुतेः । अप्रकृतार्थे हृदयाशं कोशमिति शाक-
पार्थिवादिसमास: । योगकलयेत्यत्र विषयविशेषे चित्तैका-
व्यरूपस्य योगस्याङ्गे प्राणायामे योगशब्दस्य कोशशब्दस्य
धनराशिवाचिनो धनागारे च निरूढा लक्षणा ।
संननोपायध्यानसंगतियुक्तिषु' इति · कोशोऽस्त्री कुडूमले
खड्गपिधानेऽर्थौघदिव्ययोः' इति चामरसिंहः । शश्वच्छ-
ब्दस्य ' पुन:सदार्थयोः शश्वत्' इत्यर्थद्वयेऽनुशिष्टत्वात्प्रकृते
ऽर्थे सदार्थवृत्तेरप्रकृतेऽर्थे पौनःपुन्यवृत्तेश्च ततस्तद्धितः । वस-
न्ततिलका वृत्तम् ।' उक्ता वसन्ततिलका तभजा जगौ गः '
इति तल्लक्षणम् ॥ १ ॥
 
:
 
योगः
 
जातो न वेत्ति भगवन्न जनिष्यमाणः
पारं परं परमपूरुष ते महिम्नः ।
तय स्तुतौ तव तरङ्गितसाहसिक्यः
 
किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २ ॥
 
1