This page has been fully proofread once and needs a second look.

भावं विना अन्वयाभावात् निधिरिव भगवान्मह्यं श्रेयो

दिशत्वित्यौपम्यप्रतीतेः शब्दशक्तिमूल उपमालंकारध्वनिः ।

परिच्छेदापरिच्छेदयोरौपाधिकत्वस्वाभाविकत्वाभ्यां संघटना-

यामपिशब्देन प्रत्यायितस्य विरोधस्य वस्तुतत्त्वदृष्ट्या समा-

धानाद्विरोधाभासालंकारः । भगवतः परमाश्चर्यरूपत्वेन तत्सं-

घटनायामपिशब्देन तस्यैव प्रत्यायनात्तथाभूतसकलवस्त्वन्तरा-

पे
क्षया आधिक्यरूपो व्यतिरेकालंकारः । अप्रकृतार्थप्रतिपा-

दने तु मुकुन्दकोशादिशब्देषु श्लेष: । हृदयाब्जकोशमित्यत्रो-

पमा । यथारूचि गृह्यमाणोऽपि परिपूर्णरूपः प्रस्फुरतीत्य
त्र
प्रतीयमानो लौकिकनिध्यपेक्षया आधिक्यरूपो व्यतिरेकालं-

कारश्च । एते प्रधानस्योपमालंकारध्वनेः शरीरिण इव हार-

कटककेयूरादयोऽङ्गभूता इति तैः सह प्रकृतस्योपमालंकारस्य

संकरः । यथा चाप्रकृतार्थेऽप्यभिधावृत्त्या श्लेषोऽप्यन्त्र प्रती-

यते तथोपपादितं वृत्तिवार्त्तिके । लक्षणानि - ' उपमा यत्र
मा

सा
दृश्यलक्ष्मीरुल्लसति द्वयोः । गङ्गेव भवतः कीर्त्तिः स्वर्नदी

भवति प्रभो ॥ पाठान्तरम् - हंसीव कृष्ण ते काकीर्त्ति: स्वर्ग-

ङ्गामवगाहते ॥ व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला

इवोन्नता: सन्तः किं तु प्रकृतिकोमलाः ॥ आभासत्वे विरो-

धस्य विरोधाभास इष्यते । तन्वङ्गि तव वक्षोजावहारावपि

हारिणौ ॥ नानार्थसंश्रय: श्लेषो वर्ण्यावण्योभयाश्रयः । सर्वदो