2023-02-28 09:05:13 by Akshaydixit
This page has not been fully proofread.
संहर्तव्यत्वेनोक्तस्य त्रिविधपरिच्छेदराहित्यलक्षणस्यानन्त्यस्या-
नुसंधानावश्यंभावाच्च । एकस्य ब्रह्मणः परिच्छिन्नतया दृश्य-
मानस्यैवापरिच्छिन्नतया स्फुरणमनुपपन्नमित्यनुपपत्त्युद्घाटना-
यापि-शब्दः । परिच्छेदापरिच्छेदयोरौपाधिकत्वस्वाभाविकत्वा-
भ्याम् , हरिवंशगताश्चर्योपाख्यानोक्तरीत्या भगवतः परमाश्च-
र्यरूपत्वेन परिच्छिन्नतया दृश्यमाने भगवन्मुखे यशोदया
सर्वस्य प्रपञ्चस्य दृष्टत्वेन च परिच्छेदापरिच्छेदयोः स्वत एव
संभवाद्वा तत्समाधानम् । एवंभूतो मुकुन्दः मे मह्यं शाश्वतिकं
नित्यं श्रेयो दिशत्वित्यर्थः । अत्र मुकुन्दशब्दशक्त्या निधिवि-
शेषोऽपि प्रतीयते । स तु हृदयाब्जवत् गूढप्रदेशे स्थितं कोशं
धनागारं योगकलया उपायसामर्थ्येन उद्घाट्य धन्यैः धनलाभ-
शीलैः । ' धनगणं लब्धा' इति सूत्रेणोक्तार्थे यत्प्रत्ययः ।
यद्वा धन्यं धननिमित्तभूतः संयोगस्तद्वद्भिः । 'गोव्यचोऽसं-
ख्यापरिमाणाश्वादेर्यत्' इति सूत्रेण धनस्य निमित्तं संयोग
इत्यर्थे यत्प्रत्यये सति धन्यमेषामस्तीत्यर्थे 'अर्शआदिभ्योऽच्'
इति सूत्रेण मत्वर्थीयोऽच्प्रत्ययः, अर्शआदेराकृतिगणत्वात् ।
चिरात् बहुकालमारभ्य यथारुचि यथेच्छं गृह्यमाण उपादीय-
मानोऽपि न क्षीयते, किं तु अविरतं यथापूर्वं परिपूर्णरूप:
प्रस्फुरति ; सः शाश्वतिकं पुनः पुनर्भवं श्रेयो भोगरूपं
दिशतु । एवं प्रतीयमानस्याप्रकृतार्थस्य प्रकृतार्थे उपमान -