This page has been fully proofread once and needs a second look.

x
 
संहर्तव्यत्वेनोक्तस्य वित्रिविधपरिच्छेदराहित्यलक्षणस्यानन्त्यस्या-

नुसंधानावश्यंभावाच्च । एकस्य ब्रह्मणः परिच्छिन्नतया दृश्य-

मानस्यैवापरिच्छिन्नतया स्फुरणमनुपपन्नमित्यनुपपत्त्युद्घाटना-

यापि-शब्दः । परिच्छेदापरिच्छेदयोरौपाधिकत्वस्वाभाविकत्वा-

भ्याम् . हरिवंशगताश्चर्योपाख्यानोक्तरीत्या भगवतः परमाश्च-

र्यरूपत्वेन परिच्छिन्नतया दृश्यमाने भगवन्मुखे यशोदया

सर्वस्य प्रपञ्चस्य दृष्टत्वेन च परिच्छेदापरिच्छेदयोः स्वत एव

संभवाद्वा तत्समाधानम् । एवंभूतो मुकुन्दः मे मह्यं शाश्वतिकं

नित्यं श्रेयो दिशत्वित्यर्थः । अत्र मुकुन्दशब्दशक्त्या निधिवि-

शेषोऽपि प्रतीयते । स तु हृदयाब्जवत् गूढप्रदेशे स्थितं कोशं

धनागारं योगकलया उपायसामर्थ्येन उद्घाट्य धन्यैः धनलाभ-

शीलैः । ' धनगणं लब्धा' इति सूत्रेणोक्तार्थे यत्प्रत्ययः ।

यद्वा धन्यं धननिमित्तभूतः संयोगस्तद्वद्भिः । गोव्यचोऽसं-

ख्यापरिमाणाश्वादेर्यत्' इति सूत्रेण धनस्य निमित्तं संयोग

इत्यर्थे यत्प्रत्यये सति धन्यमेषामस्तीत्यर्थे : अर्शआदिभ्योऽच्

इति सूत्रेण मत्वर्थीयोऽच्प्रत्ययः अर्शआदेराकृतिगणत्वात् ।

चिरात् बहुकालमारभ्य यथारुचि यथेच्छं गृह्यमाण उपादीय-

मानोऽपि न क्षीयते, किं तु अविरतं यथापूर्वं परिपूर्णरूप:

प्रस्फुरति ; सः शाश्वतिकं पुनः पुनर्भवं श्रेयो भोगरूपं

दशतु । एवं प्रतीयमानस्याप्रकृतार्थस्य प्रकृतार्थे उपमान -
 
6
 
·
 
3