This page has been fully proofread once and needs a second look.


 
बान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः' इति,

• एष आत्मा अन्तर्हदये अणीयान्त्व्रीहेर्वा यवाद्वा सर्षपाद्वा'
'
इत्येतत्संनिधौ · ज्यायान्दिवो ज्यायानन्तरिक्षाज्ज्यायान्पृथि-

व्या: ' इति च व्यापित्वस्य, अङ्गुष्ठमात्रः पुरुषो मध्य

आत्मनि तिष्ठति' इत्येतत्संनिधौ ' यस्मिन्द्यौः पृथिवी चान्त-

रिक्षमोतं मनः सह प्राणैश्च सर्वैः' इति व्यापित्वनियतस्य

जगदाधारत्वस्य. 'केचित्स्वदेहे हृदयावकाशे प्रादेशमात्रं

पुरुषं वसन्तम् । चतुर्भुजं कंजरथाङ्गशङ्खगदाधरं धारणया

स्मरन्ति ॥' इति भागवतीयहृदयावकाशानुसारिप्रादेशपरि-

माणोक्तिसंनिधौ वैराजरूपस्य, वैश्वानररूपमेव गुप्रभृतिपृथि-
-

व्यन्तप्रदेशावच्छिन्नतया प्रादेशमात्रं कृत्वा प्रवृत्ते ' यस्त्वेत-

मेषं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' इत्यत्र

बिगतमानत्वस्य चाम्नानात्, कृतश्रवणमननानामुपासनाका-

लानुसंधेयभगवद्गुणजात सहाम्नातगुणान्तराणामपि स्फुरण-
म्

स्
यावर्जनीयत्वात्, गायत्रीविद्यायाम् पादोऽस्य सर्वा
 

भूतानि बित्रिपादस्यामृतं दिवि' इति श्रुतस्य गायत्रीरू -

पेणानुसंधेयतया विहितस्य पादचतुष्टयस्याप्ग्रिमसंदर्भश्रुतप्रा-

कयामूर्ध्वान्तसुषिरपञ्चकजाप्ग्रद्ब्रह्मपुरुषलक्षणद्वारपालयुगलपश्ञ्च-

फशालिहृदयकमलरूपराजधानीस्थितत्वस्य चानुसंधेयत्वात्,

मरविद्याविष्वपि ' आनन्दादयः प्रधानस्य' इति सूत्रे उप-
6
 
i
 
"
 
-