This page has not been fully proofread.


 
बान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः' इति,
• एष आत्मा अन्तर्हदये अणीयान्त्रीहेर्वा यवाद्वा सर्षपाद्वा'
इत्येतत्संनिधौ · ज्यायान्दिवो ज्यायानन्तरिक्षाज्ज्यायान्पृथि-
व्या: ' इति च व्यापित्वस्य, अङ्गुष्ठमात्रः पुरुषो मध्य
आत्मनि तिष्ठति' इत्येतत्संनिधौ ' यस्मिन्द्यौः पृथिवी चान्त-
रिक्षमोतं मनः सह प्राणैश्च सर्वैः' इति व्यापित्वनियतस्य
जगदाधारत्वस्य. केचित्स्वदेहे हृदयावकाशे प्रादेशमात्रं
पुरुषं वसन्तम् । चतुर्भुजं कंजरथाङ्गशङ्खगदाधरं धारणया
स्मरन्ति ॥' इति भागवतीयहृदयावकाशानुसारिप्रादेशपरि-
माणोक्तिसंनिधौ वैराजरूपस्य, वैश्वानररूपमेव गुप्रभृतिपृथि-
-
व्यन्तप्रदेशावच्छिन्नतया प्रादेशमात्रं कृत्वा प्रवृत्ते ' यस्त्वेत-
मेषं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' इत्यत्र
बिगतमानत्वस्य चाम्नानात्, कृतश्रवणमननानामुपासनाका-
लानुसंधेयभगवद्गुणजात सहाम्नातगुणान्तराणामपि स्फुरण-
म्यावर्जनीयत्वात्, गायत्रीविद्यायाम् पादोऽस्य सर्वा
 
भूतानि बिपादस्यामृतं दिवि' इति श्रुतस्य गायत्रीरू -
पेणानुसंधेयतया विहितस्य पादचतुष्टयस्याप्रिमसंदर्भश्रुतप्रा-
कयामूर्ध्वान्तसुषिरपञ्चकजाप्रद्ब्रह्मपुरुषलक्षणद्वारपालयुगलपश्च-
फशालिहृदयकमलरूपराजधानीस्थितत्वस्य चानुसंधेयत्वात्,
मरविद्याविष्वपि ' आनन्दादयः प्रधानस्य' इति सूत्रे उप-
6
 
i
 
"
 
-