This page has been fully proofread once and needs a second look.

यः प्रस्फुरत्यविरतं परिपूर्णरूपः
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १ ॥
 
हृदयाब्जकोशं हृत्पद्ममुकुलं कदलीपुष्पसदृशं योगकलया
रेचकप्राणायामाभ्यासरूपयोगशिल्पेन । तद्भ्यासपाटवेनेति
यावत् । उद्घाट्य विकास्य चिरात् धन्यैः सुकृतिभिः । चिरका-
लसंभृततपोबललब्धेन भगवद्भक्तिविरोधिसकलपापविध्वंसकेन
सुकृतपरिपाकेण युक्तैरिति यावत् । 'सुकृती पुण्यवान्धन्यः'
इत्यमरः । ' जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः । नराणां
क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥' इति हि पुराणवच-
नम् । एवंभूतैः पुरुषधौरेयैः यथारूचि ध्यानकालानुसंधेय-
त्वेन श्रुतिपुराणप्रतिपन्नानां नीवारशूकाङ्गुष्ठप्रादेशादिपरिमा-
णानां मध्ये स्वस्वरुच्यनुसारिणा परिमाणेन गृह्यमाण: हृद-
यकमले दृश्यमानोऽपि यः अविरतं नित्यं गगनवत्परिपूर्ण-
रूप: प्रस्फुरति प्रकाशते, ध्यानकालेषु यैः परिच्छिन्नो दृश्यते
तेषामपि परिपूर्णरूपो भगवान्प्रकाशते । 'नीवारशूकवत्तन्वी
पीता भास्वत्यनूपमा । तस्याः शिखाया मध्ये परमात्मा व्यव-
स्थितः ॥' इत्येतत्संनिधौ 'अन्तर्बहिश्च तत्सर्वं व्याप्य
नारायण: स्थितः' इति, 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं
पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः' इत्येतत्संनिधौ 'या-