This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
॥ वरदराजस्तवः ॥
 
अभिवन्द्य चन्द्रशेखरमाद्यं गौरीसखं परं ज्योतिः ।
व्याकुर्वे स्वेन कृतां गूढार्था वरदराजनुतिम् ॥
 
इह खलु कविर्भक्तानुजिघृक्षया स्वीकृतदिव्यरूपस्य भगवतो वरदराजस्य पादारविन्दप्रभृतिकुन्तलभरपर्यन्तसकलावयवानु-
संधानजन्यपरमानन्दं प्रयोजनमुद्दिश्य स्तोत्रं चिकीर्षमाणः
स्वाभिमतं फलमाशासान एव चिकीर्षितस्तोत्रस्य निरन्तरायप-
रिपूरणप्रचयगमनाद्यर्थं तदनुस्मरणरूपं मङ्गलमाचरति--
 
उद्घाट्य योगकलया हृदयाब्जकोशं
धन्यैश्विचिरादपि यथारूचि गृह्यमाण: ।