This page has been fully proofread once and needs a second look.

1
 
॥ श्रीः ॥
 

 
॥ वरदराजस्तवः ॥
 

 
अभिवन्द्य चन्द्रशेखरमाद्यं गौरीसखं परं ज्योतिः ।

व्याकुर्वे स्वेन कृतां गूढार्था वरदराजनुतिम् ॥
 

 
इह खलु कविर्भक्तानुजिघृक्षया स्वीकृतदिव्यरूपस्य भगवतो
वरदराजस्य पादारविन्दप्रभृतिकुन्तलभरपर्यन्तसकलावयवानु-

संधानजन्यपरमानन्द प्रयोजनमुद्दिश्य स्तोत्रं चिकीर्षमाणः
स्वाभिमतं फलमाशासान एव चिकीर्षितस्तोत्रस्य निरन्तरायप-

रिपूरणप्रचयगमनाद्यर्थ तदनुस्मरणरूपं मङ्गलमाचरति
 
--
 
उद्घाट्य योगकल्या हृदयाब्जकोशं

धन्यैश्विरादपि यथारूचि गृह्यमाण: ।