This page has been fully proofread once and needs a second look.

कारभेदः । 'हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीवि-
लासा विदुषां कटाक्षा वेंकटप्रभोः ॥' इति तल्लक्षणोदाहरणे ।
फलावश्यंभावतच्छैघ्र्य प्रत्यायनमैक्यव्यपदेशस्य प्रयोजनम् ॥
 
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य -
श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनुना श्रीमदप्प-
यदीक्षितेन कृतं वरदराजस्तवविवरणं संपूर्णम् ।