This page has been fully proofread once and needs a second look.

१२६
 
किं तु अभितः समन्ताद्विसृमरं तव कुन्तलानां गन्धमात्राय

अन्तः प्रवेष्टुमनसः गन्धलोभादन्तः प्रवेष्डकामाः तदर्
थं
परितो निलीना: अलिनो मधुव्रताः राजन्ति । अत्र विषया-

ह्नवेन विषय्यारोपाद्वाक्यभेदेनापह्नुत्यलंकारः ॥ १०५ ॥
 

 
आपादमाचिकुरभारमशेषमङ्ग-

मानन्दबृन्दलसितं सुदृशामसीमम् ।

अन्तर्मम स्फुरतु संततमन्तरात्म-

न्नम्भोजलोचन तव श्रितहस्तिशैलम् ॥
 

 
हे अन्तरात्मन्, अम्भोजलोचन, सुदृशां सुलोचनाना-

मुत्तमस्त्रीणां सम्यग्ज्ञानवतां ब्रह्मज्ञानां च ' हग्ज्ञानं त्रिषु '

इत्यमरः । असीमममर्यादं निरतिशयम् आनन्दबृन्दलसित -

मुल्लसद्सं विजृम्भमाणं श्रितहस्तिशैलम् आपादमाचिकुरभारं

तव अशेषमङ्गं सर्वेऽवयवाः । जातावेकवचनम् । यद्वा सर्
वं
वपु: ' सर्व: पटोऽयमरुण: ' इतिवत् अवयवकार्त्स्न्ये अशेष-

शब्दः । सर्वावयवयुक्तं च वपुरिति यावत् । ' अङ्गं शरी-

रावयवे शरीरोपाययोर्गुणे' इति केशवः । मम अन्तः

हृदि संततं सदा स्फुरतु प्रकाशताम् । हेतुहेतुमतोर्भगवद्वि-

ग्र
हतदालोकनजनितातिशयानन्दयोरैक्यस्य व्यपदेशाद्धेत्वलं-