This page has not been fully proofread.

१२६
 
किं तु अभितः समन्ताद्विसृमरं तव कुन्तलानां गन्धमात्राय
अन्तः प्रवेष्टुमनसः गन्धलोभादन्तः प्रवेष्डकामाः तदर्थ
परितो निलीना: अलिनो मधुव्रताः राजन्ति । अत्र विषया-
पहवेन विषय्यारोपाद्वाक्यभेदेनापत्यलंकारः ॥ १०५ ॥
 
आपादमाचिकुरभारमशेषमङ्ग-
मानन्दबृन्दलसितं सुदृशामसीमम् ।
अन्तर्मम स्फुरतु संततमन्तरात्म-
न्नम्भोजलोचन तव श्रितहस्तिशैलम् ॥
 
हे अन्तरात्मन्, अम्भोजलोचन, सुदृशां सुलोचनाना-
मुत्तमस्त्रीणां सम्यग्ज्ञानवतां ब्रह्मज्ञानां च ' हग्ज्ञानं त्रिषु '
इत्यमरः । असीमममर्यादं निरतिशयम् आनन्दबृन्दलसित -
मुल्लसद्सं विजृम्भमाणं श्रितहस्तिशैलम् आपादमाचिकुरभारं
तव अशेषमङ्गं सर्वेऽवयवाः । जातावेकवचनम् । यद्वा सर्व
वपु: ' सर्व: पटोऽयमरुण: ' इतिवत् अवयवकार्ये अशेष-
शब्दः । सर्वावयवयुक्तं च वपुरिति यावत् । ' अङ्गं शरी-
रावयवे शरीरोपाययोर्गुणे' इति केशवः । मम अन्तः
हृदि संततं सदा स्फुरतु प्रकाशताम् । हेतुहेतुमतोर्भगवद्वि-
महतदालोकनजनितातिशयानन्दयोरैक्यस्य व्यपदेशाद्धेत्वलं-