This page has been fully proofread once and needs a second look.

6
 
-
 
तस्य
 
माविर्भूतस्य मम दर्शनान्मुक्तो जात इति हेतुना अन्यं वि-

धातुमनसः लोकसृष्ट्यर्थमन्यं प्रजापतिं स्रष्टुकामस्य तव

भालजाता ललाटोत्पन्ना घर्माम्बुबिन्दूनां स्वेदजलकणिकानां

ततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतः मुकुटमूलभाग-

निबद्धमुक्ताफलपङ्क्तिव्याजेन विभाति । अत्र चतुर्मुखस्य

सृष्टिर्भगवल्ललाटस्वेदनिदानेति महोपनिषद्याम्नायते –- ' अथ

पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत ।
तस्य
ध्यानान्तस्थस्य ललाटात्स्वेदोऽपतत् । ता इमा आप-

स्ताभ्य: सुतेजो हिरण्मयमण्डमभवत् । तत्र ब्रह्मा चतु-

र्
मुखोऽजायत ।' इति तदर्थमुपजीव्य नेमानि मौक्तिकानि

किंतु ललाटबद्धस्वेदबिन्दव एवेति च्छलशब्देनाप हुतिर्नि-
ह्नुतिर्नि-
बद्धा । प्रजापत्यन्तरासेसिसृक्षायां स्थितस्य प्रजापतेर्मुकत्वं हेतु-

त्वेन निबद्धमिति हेत्वपहुह्नुत्यलंकारयोः संकरः ॥ १०४ ॥

 
राजन्त्यनर्घमणिसंघमये किरीटे
 

राजीवलोचन न नीलमणिप्रवेकाः ।

घाघ्राय गन्धमलिनस्तव कुन्तलाना-

मन्तः प्रवेष्टुमनसः परितो निलीनाः ॥

 
हे राजीवलोचन, अनर्धम णिसिंघमये अमूल्यरत्नबृन्दप्रचुरे

तव किरीटे नीलमणिप्रवेकाः इन्द्रनीलरत्नोत्तमाः न राजन्ति