This page has not been fully proofread.

6
 
-
 
तस्य
 
माविर्भूतस्य मम दर्शनान्मुक्तो जात इति हेतुना अन्यं वि-
धातुमनसः लोकसृष्टयर्थमन्यं प्रजापतिं स्रष्टुकामस्य तव
भालजाता ललाटोत्पन्ना घर्माम्बुबिन्दूनां स्वेदजलकणिकानां
ततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतः मुकुटमूलभाग-
निबद्धमुक्ताफलपङ्क्तिव्याजेन विभाति । अत्र चतुर्मुखस्य
सृष्टिर्भगवल्ललाटस्वेदनिदानेति महोपनिषद्याम्नायते – ' अथ
पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत ।
ध्यानान्तस्थस्य ललाटात्स्वेदोऽपतत् । ता इमा आप-
स्ताभ्य: सुतेजो हिरण्मयमण्डमभवत् । तत्र ब्रह्मा चतु-
मुखोऽजायत ।' इति तदर्थमुपजीव्य नेमानि मौक्तिकानि
किंतु ललाटबद्धस्वेदबिन्दव एवेति च्छलशब्देनाप हुतिर्नि-
बद्धा । प्रजापत्यन्तरासेसृक्षायां स्थितस्य प्रजापतेर्मुकत्वं हेतु-
त्वेन निबद्धमिति हेत्वपहुत्यलंकारयोः संकरः ॥ १०४ ॥
राजन्त्यनर्घमणिसंघमये किरीटे
 
राजीवलोचन न नीलमणिप्रवेकाः ।
आघाय गन्धमलिनस्तव कुन्तलाना-
मन्तः प्रवेष्टुमनसः परितो निलीनाः ॥
हे राजीवलोचन, अनर्धम सिंघमये अमूल्यरत्नबृन्दप्रचुरे
तव किरीटे नीलमणिप्रवेकाः इन्द्रनीलरत्नोत्तमाः न राजन्ति