This page has been fully proofread once and needs a second look.

१२४
 
पद्मानुरागजुषि लोहितशुक्लकृष्णा-

मासेदुषि प्रकृतिमादृषि प्रकृतिमाहत मीनरूपे

श्रुत्यन्तभासिनि मदावलशैलनाथ

त्वल्लोचने त्वयि च भाति न मे विशेषः ॥

 
हे मदावलशैलनाथ मदावलशैलो नागाचल: तस्य स्वा-

मिन्, पद्मानुरागजुषि सादृश्यरूपकमल सौहार्दजुषि लोहि-

तशुक्कृकृष्णां प्रकृतिं रेखासु गोलके कनीनिकायां च लौहि-

त्यादिवर्णत्रयशालिनं स्वभावमासेदुषि प्राप्तवति आदृतमीन-

रूपे अङ्गीकृतमीनाकारे श्रुत्यन्तभासिनि कर्णान्तविश्रान्ते त्व-

ल्लोचने त्वयि च विशेषो न मे भाति । साम्यमेव भाती-

त्यर्थ: । विशेषणानां भगवति योजनायाम्, पद्मा लक्ष्मीः,

प्रकृतिस्त्रिगुणा । 'अजामेकाम्--' इत्यादिश्रुत्या प्रकृतेर्लोहिता-

दिवर्णत्रयशालित्वम् । मीनरूपं मत्स्यावतारः । श्रुत्यन्तो
 

वेदान्तः । श्लेषोत्थापित उपमालंकारः ॥ १०३ ॥

 
मुक्तः प्रजापतिरयं मम दर्शनादि-

त्यन्यं विधातुमनसस्तव भालजाता ।

धर्माम्बुबिन्दुततिरेव किरीटमूल-

प्रत्युप्तमौक्तिकततिच्छलतो विभाति ।

 
अयं प्रजापतिः योऽश्वमेधेनाराधयामास अयमुत्तरवेद्या-