This page has not been fully proofread.

१२४
 
पद्मानुरागजुषि लोहितशुक्लकृष्णा-
मासेदृषि प्रकृतिमाहत मीनरूपे
श्रुत्यन्तभासिनि मदावलशैलनाथ
त्वल्लोचने त्वयि च भाति न मे विशेषः ॥
हे मदावलशैलनाथ मदावलशैलो नागाचल: तस्य स्वा-
मिन्, पद्मानुरागजुषि सादृश्यरूपकमल सौहार्दजुषि लोहि-
तशुक्कृकृष्णां प्रकृतिं रेखासु गोलके कनीनिकायां च लौहि-
त्यादिवर्णत्रयशालिनं स्वभावमासेदुषि प्राप्तवति आइतमीन-
रूपे अङ्गीकृतमीनाकारे श्रुत्यन्तभासिनि कर्णान्तविश्रान्ते त्व-
ल्लोचने त्वयि च विशेषो न मे भाति । साम्यमेव भाती-
त्यर्थ: । विशेषणानां भगवति योजनायाम्, पद्मा लक्ष्मीः,
प्रकृतिस्त्रिगुणा । 'अजामेकाम्-' इत्यादिश्रुत्या प्रकृतेर्लोहिता-
दिवर्णत्रयशालित्वम् । मीनरूपं मत्स्यावतारः । श्रुत्यन्तो
 
वेदान्तः । श्लेषोत्थापित उपमालंकारः ॥ १०३ ॥
मुक्तः प्रजापतिरयं मम दर्शनादि-
त्यन्यं विधातुमनसस्तव भालजाता ।
धर्माम्बुबिन्दुततिरेव किरीटमूल-
प्रत्युतमौक्तिकततिच्छलतो विभाति ।
अयं प्रजापतिः योऽश्वमेधेनाराधयामास अयमुत्तरवेद्या-