This page has not been fully proofread.

१२३
 
च दक्षिणम् । 'विदग्धे च परच्छन्दानुवर्तिन्यपि दक्षिणम् ।
कुशली भट्टनन्द्याह तथा यः कुल वाहवे । शरीरावयवे
चापि वामस्य प्रतियोगिनि ॥' इति केशवः । तस्य भावो
दाक्षिण्यं वामेतरत्वं तदेव दाक्षिण्यं परच्छन्दानुवर्तितापादक:
सापराधेऽपि हिताचरणप्रवर्तकः आनुकूल्याख्यश्चेतोवृत्तिवि
शेषः ।
दाक्षिण्य मनुकूलता' इति शब्दरत्नाकरः । उक्त-
रूपं दाक्षिण्यमेव तत्र कृतापराधस्याम्बुजस्य श्रीप्रदानेन बहू -
करणे मूलम् । अत्र पद्मस्य जले प्ररूढस्य स्वतः सिद्धा
समुन्नतिरवलेपहेतुका प्रावण्यरूपाध्यवसितेत्यतिशयोक्तिः । त-
दीयविकासशोभाहरणं श्लेषेण तदीयैश्वर्यहरणत्वेनाध्यवासित-
मिति तत्राप्यतिशयोक्तिः । उभयोरप्यतिशयोक्तिसिद्धयोरर्थ-
योर्हेतुहेतुमद्भावस्य हेतुगर्भविशेषणेन प्रतीतेर्हेत्वलंकारः ।
उत्तरवाक्ये दाक्षिण्य रूपमनोवृत्तितयाध्यवसितस्य वामेतर-
त्वस्य तस्यापि तां समधिकामिति निर्दिष्टार्थस्य च हेतुहेतु-
मद्भावो मूलशब्देनैवोक्त इति तत्रापि श्लेषमूलातिशयोक्त्यु-
त्थापितो हेत्वलंकार इत्युभयोः समप्रधानयोः परस्परानुप्रा-
णितत्वेन संकरः । सव्यमन्यदिति विशेषणद्वयमक्ष्यन्वयि -
क्रियाद्वयोपपादनार्थमक्षिद्वयस्य चन्द्रसूर्यरूपत्वाभिप्रायगर्भमि-
ति परिकराभ्यामपि हेत्वलंकारयोः संकरः ॥ १०२ ॥