This page has been fully proofread once and needs a second look.

१२२
 
याः पृथगुपमानोपमेययोर्निबन्धनात्प्रतिवस्तूपमालंकार इति

तेन विषमालंकारस्य संकरः । तेन वैषम्यसमाधानारीरस्कोऽयं

विषमालंकारः । ' विषमं वर्ण्यते यत्र घटनाननुरूपयोः ।

केयं शिरीषमृद्वङ्गी क्व तादृप्रङ्भदनज्वरः ॥ वाक्ययोरेकसा-

मान्ये प्रतिवस्तूपमा मता । तापेन भ्राजते सूरः शूरश्चापेन

राजते ॥' इति विषमप्रतिवस्तूपमयोर्लक्षणोदाहरणानि ।

प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्म एक एव शब्दभेदेन

पृथङ्निर्दिश्यत इति प्रतिवस्तूपमा ॥ १०१ ॥

 
साम्यभ्रमादविनयेन समुन्नतस्य
 

सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।

तस्यापि तां समधिकां तनुते यदन्य-

द्दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥

 
हे दनुजाहित दैत्य रिपो, तव सव्यमक्षि चन्द्ररूपं साम्य-

भ्रमात् त्वदक्षिभ्यां स्वयं सममिति भ्रमात् अविनयेन गर्वेण

समुन्नतस्य अम्बुजस्य श्रियं विकासशोभां संपदं च हरति ।

उत्कृष्टा हि राजादयः स्वसाम्य भ्रमादवालिप्तस्य प्रावण्यरहि-

तस्य गर्वशान्तये संपदं हरन्ति । अन्यद्दक्षिणमक्षि सूर्यरूपं

तस्यापि तथाभूतस्यापि अम्बुजस्य समधिकामधिकतरां श्रियं

तनुते इति यत् तत्र दाक्षिण्यमेव वामेतरत् परच्छन्दानुवर्ति