2023-02-23 16:31:33 by ambuda-bot
This page has not been fully proofread.
१२२
याः पृथगुपमानोपमेययोर्निबन्धनात्प्रतिवस्तूपमालंकार इति
तेन विषमालंकारस्य संकरः । तेन वैषम्यसमाधानारीरस्कोऽयं
विषमालंकारः । ' विषमं वर्ण्यते यस घटनाननुरूपयोः ।
केयं शिरीषमृद्वङ्गी क तादृप्रदनज्वरः ॥ वाक्ययोरेकसा-
मान्ये प्रतिवस्तूपमा मता । तापेन भ्राजते सूरः शूरचापेन
राजते ॥' इति विषमप्रतिवस्तूपमयोर्लक्षणोदाहरणानि ।
प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्म एक एव शब्दभेदेन
पृथनिर्दिश्यत इति प्रतिवस्तूपमा ॥ १०१ ॥
साम्यभ्रमादविनयेन समुन्नतस्य
सव्यं तवाक्षि हरति श्रियमम्बुजस्य ।
तस्यापि तां समधिकां तनुते यदन्य-
द्दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥
हे दनुजाहित दैत्य रिपो, तव सव्यमक्षि चन्द्ररूपं साम्य-
भ्रमात् त्वदक्षिभ्यां स्वयं सममिति भ्रमात् अविनयेन गर्वेण
समुन्नतस्य अम्बुजस्य श्रियं विकासशोभां संपदं च हरति ।
उत्कृष्टा हि राजादयः स्वसाम्य भ्रमादवालिप्तस्य प्रावण्यरहि-
तस्य गर्वशान्तये संपदं हरन्ति । अन्यदक्षिणमक्षि सूर्यरूपं
तस्यापि तथाभूतस्यापि अम्बुजस्य समधिकामधिकतरां श्रियं
तनुते इति यत् तत्र दाक्षिण्यमेव वामेतरत् परच्छन्दानुवर्ति