This page has been fully proofread once and needs a second look.

१२१
 
सर्वात्मनस्तव समाधिकवस्त्वलाभा.
-
दाकाशवत्स खलु सर्वगतत्वमाह ॥
 
6 ' तस्य यथा
 

 
अप्राकृते तव नेत्रे व तुच्छमिदं पुण्डरीकं क्व ? अथापि वेदः

तयोस्त्वन्नेत्रयोः तत्पुण्डरीकमुपमानं ब्रूते आह
' तस्य यथा
कप्यासं पुण्डरीकमेवमक्षिणी' इति । अधिकगुणं खलूपमानं

निबद्धव्यम् । इदं पुण्डरीकं भवन्नेत्राभ्यां न्यूनगुणमिति वक्तु-

मपि प्रसक्तिरहितं कथमुपमानभावमश्नुवीत ? अतस्तस्योप-

मानत्वेन निबन्धनमत्यन्तमनुचितमेव । एतदनौचित्यं वेद-

शैल्या परिहिह्रियते -- स खलु वेदः सर्वात्मनः सकलचराचर-

प्रपञ्चात्मतया परिच्छेदातीतस्य तव सदृशाधिक वस्त्वलाभात्

आकाशवत्सर्वगतत्वमाह । न हि प्रतिब्रह्माण्डं भिन्नभिन्न-

मित्यत्यन्तमेव परिच्छिन्नमाकाशं भगवतः सर्वगतत्वे उपमा-

नतामर्हति । अथापि भगवतः सर्वगतत्वं केनचिदुपायेन

बोधयितुं प्रवृत्तो वेदः आकाशातिरिक्तं व्यापि वस्त्वपश्यन्

तमेवोपमानीचकार । एवं शैल्या दर्शनादिदमपि तथेत्यनौ-

चित्यपरिहारः । अत्र पूर्वार्धे विरूपघटनारूपो विषमालंकार-

भेदः । उत्तरार्धे वेदशैलीप्रदर्शनेन तदुपपादनम् । ततश्च

सदृशाधिकवस्त्वलाभादाकाशस्येव पुण्डरीकस्योपमानत्वकल्प -

नमित्यौपम्यस्य गम्यत्वात् ब्रूत इत्याहेति चैकस्या एव क्रिया-
19