This page has been fully proofread once and needs a second look.

१२०
 
कृत्त्वेन मधुनेतृत्वान्मधुकरत्वेन निरूपिताः । ततश्च मधुकराणां

रससमाहरणार्थं पुष्पेषु समाहृतरससंयोजनार्थं मध्वपूपगते

मधुनि च पुनः पुनर्गतागतं लोके दृष्टम् । अतो वेदेतिहास-

रूपेषु भगवन्निःश्वासेषु नाभीपद्मरविमण्डले च पुनः पुनर्गतागतं

कुर्वन्मधुकरकुलं मधुविद्योक्तमधुकरकुलत्वेनोत्प्रेक्ष्यते । सा

चोत्प्रेक्षा रूपकोत्थापितेति संकरः ॥ ९९ ॥
 

 
देहाद्वदन्ति जननं मुनयस्तिलानां
 

देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् ।

नारायणैतदुचितं प्रकटीकरोति

नासाभिधानमिह दिव्यतिलप्रसूनम् ॥
 

 
हे देवेन्द्र वन्द्यचरणाम्बुज नारायण, मुनयः तावकीना-

द्
देहात् तिलानां जननं वदन्ति । एतत् तेषां वचनम् इह तव

देहे नासाभिधानं दिव्यं नित्यमम्लानत्वेनाश्चर्यभूतं तिलप्रसूनं

कर्तृ उचितं प्रकटीकरोति । अत्राप्तवाक्यप्रतिपन्नस्यार्थस्याति-

शयोक्तिकल्पितेन लिङ्गेन दार्ढ्यं क्रियत इति तदुत्थापितोऽनु-

मानालंकारः ॥ १०० ॥
 

 
नेत्रे तव क्व भगवन्क्व च पुण्डरीकं

ब्रूते तयोस्तदुपमानमथापि वेदः ।
 
ca