This page has not been fully proofread.

१२०
 
कृत्त्वेन मधुनेतृत्वान्मधुकरत्वेन निरूपिताः । ततश्च मधुकराणां
रससमाहरणार्थ पुष्पेषु समाहृतरससंयोजनार्थं मध्वपूपगते
मधुनि च पुनः पुनर्गतागतं लोके दृष्टम् । अतो वेदेतिहास-
रूपेषु भगवन्निःश्वासेषु नाभीपद्मरविमण्डले च पुनः पुनर्गतागतं
कुर्वन्मधुकरकुलं मधुविद्योक्तमधुकरकुलत्वेनोत्प्रेक्ष्यते । सा
चोत्प्रेक्षा रूपकोत्थापितेति संकरः ॥ ९९ ॥
 
देहाद्वदन्ति जननं मुनयस्तिलानां
 
देवेन्द्रवन्धचरणाम्बुज तावकीनात् ।
नारायणैतदुचितं प्रकटीकरोति
नासाभिधानमिह दिव्यतिलप्रसूनम् ॥
 
हे देवेन्द्र वन्द्यचरणाम्बुज नारायण, मुनयः तावकीना-
देहात् तिलानां जननं वदन्ति । एतत् तेषां वचनम् इह तव
देहे नासाभिधानं दिव्यं नित्यमम्लानत्वेनाश्चर्यभूतं तिलप्रसूनं
कर्तृ उचितं प्रकटीकरोति । अत्राप्तवाक्यप्रतिपन्नस्यार्थस्याति-
शयोक्तिकल्पितेन लिङ्गेन दाढयं क्रियत इति तदुत्थापितोऽनु-
मानालंकारः ॥ १०० ॥
 
नेत्रे तव क भगवन्क च पुण्डरीकं
ब्रूते तयोस्तदुपमानमथापि वेदः ।
 
ca