This page has been fully proofread once and needs a second look.

११९
 
सौरभलोभात् उभयत्रापि गतागताभ्यां परिभ्रमत् मधुव्रत-

कुलं मधुकरपटलं मधुविद्यया मधुविद्याप्रतिपादकोपनिषद्भा-

गेन उक्तं मधुव्रतकुलं मन्ये । छन्दोगानामुपनिषदि ' असौ

वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षम-

पूपो मरीचयः पुत्राः । तस्य ये प्राञ्चो रश्मयस्ता एवास्य

प्राच्यो मधुनाड्य ॠच एव मधुकृत ऋग्वेद एव पुष्पम्'

इत्यादिना मधुविद्योक्ता । तत्र द्यौः तिरश्चीनः तिर्यग्गतो

वंशदण्डः यत्र मध्वपूपो लम्बते । अन्तरिक्षमपूपो मधुपटलं

यन्मध्ये मधुकरैः संभृतं मधु तिष्ठति । मरीचयः पुला:
त्राः
भ्रमरबीजभूता मध्वपूपच्छिद्रस्था: सूक्ष्मकीटाः । प्राच्यादिषु

दिक्षु प्रसृता रश्मयो मधुनाड्यो मध्वाधारच्छिद्राणि । आ-

दित्यमण्डलं मध्वपूपमध्यगतं मधु मधु च मधुकरैः पुष्पे-


भ्यो रसं समाहृत्य संपाद्यते । अत्र ऋग्यजु:सामाथर्ववेदा

इतिहासश्च पुष्पाणि । तेष्वाम्नाता ऋगादयो मन्त्रा मधु-

कराः ऋग्वेदादिविहितेषु कर्मसु सोमाज्यपयःप्रभृतीनि मन्त्रै-
रौ

रग्नौ
हूयन्ते । तान्यादित्यरश्मिसंवलितैरग्निभिरुत्पन्नपाकान्यमृ-

तभावमापन्नान्यादित्यमण्डलं प्राप्नुवन्ति 'अग्नौ प्रास्ताहुतिः

सम्यगादित्यमुपतिष्ठते' इति साधारण्यात् । अतस्तत्तत्कर्म-

बोधका ऋक्सामादयो मधुसमाहरणे मूलोपादानत्वात्पुष्पत्वेन

निरूपिताः । मन्त्रास्त्वाहुतिकरणत्वेन तत्तद्रसानामेकीकरण-