2023-02-23 16:31:33 by ambuda-bot
This page has not been fully proofread.
११९
सौरभलोभात् उभयत्रापि गतागताभ्यां परिभ्रमत् मधुव्रत-
कुलं मधुकरपटलं मधुविद्यया मधुविद्याप्रतिपादकोपनिषद्भा-
गेन उक्तं मधुव्रतकुलं मन्ये । छन्दोगानामुपनिषदि ' असौ
वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षम-
पूपो मरीचयः पुत्राः । तस्य ये प्राचो रश्मयस्ता एवास्य
प्राच्यो मधुनाड्य ॠच एव मधुकृत ऋग्वेद एव पुष्पम्'
इत्यादिना मधुविद्योक्ता । तत्र द्यौः तिरश्चीनः तिर्यग्गतो
वंशदण्डः यत्र मध्वपूपो लम्बते । अन्तरिक्षमपूपो मधुपटलं
यन्मध्ये मधुकरैः संभृतं मधु तिष्ठति । मरीचयः पुला:
भ्रमरबीजभूता मध्वपूपच्छिद्रस्था: सूक्ष्मकीटाः । प्राच्यादिषु
दिक्षु प्रसृता रश्मयो मधुनाड्यो मध्वाधारच्छिद्राणि । आ-
दित्यमण्डलं मध्वपूपमध्यगतं मधु मधु च मधुकरैः पुष्पे-
।
भ्यो रसं समाहृत्य संपाद्यते । अव ऋग्यजु:सामाथर्ववेदा
इतिहासश्च पुष्पाणि । तेष्वाम्नाता ऋगादयो मन्त्रा मधु-
कराः ऋग्वेदादिविहितेषु कर्मसु सोमाज्यपयःप्रभृतीनि मन्त्रै-
रौ हूयन्ते । तान्यादित्यरश्मिसंवलितैरग्निभिरुत्पन्नपाकान्यमृ-
तभावमापन्नान्यादित्यमण्डलं प्राप्नुवन्ति 'अग्नौ प्रास्ताहुतिः
सम्यगादित्यमुपतिष्ठते' इति साधारण्यात् । अतस्तत्तत्कर्म-
बोधका ऋक्सामादयो मधुसमाहरणे मूलोपादानत्वात्पुष्पत्वेन
निरूपिताः । मन्त्रास्त्वाहुतिकरणत्वेन तत्तद्रसानामेकीकरण-