This page has been fully proofread once and needs a second look.

११८
 
षा
पाठ: प्रत्याख्यातः । तत्पक्षे ' यौवनचक्षुषाम् ' इति पठनीयम् ॥
 

 
निःश्वासमन्दमलयानिलकन्द लेन

निर्हारिणा बहुतरेण च सौरभेण ।

नासापुटौ नलिनलोचन ते मनोज्ञौ

मन्ये सदैव मधुमाधवयोर्निवासौ ॥९८ ॥
 

 
हे नलिनलोचन, ते मनोज्ञौ नासापुटौ सदा नित्यमेव मधु-

माधवयोः वसन्तर्तुमासयो: निवासौ मन्ये । अत्र स्वरूपो-

त्प्रेक्षायां निमित्तमुच्यते -- निःश्वास एव मन्दमलयानिलः तस्

कन्दलेनाङ्कुरेण निर्हारिणा दूरं विसृमरेण बहुतरेण सौरभेण

च । 'समाकर्षी तु निर्हारी' इत्यमरः । उत्प्रेक्षाया नि:-

श्वासमन्दमलयानिलेति रूपकेण संकरः ॥ ९८ ॥
 

 
संचारशालि तव निःश्वसिते समस्त-

वेदेतिहासवपुषि द्विपशैलनाथ ।

नाभीसरोरुहनवारुणमण्डले च
 

मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९९ ॥
 

 
हे द्विपशैलनाथ, समस्तवेदेतिहासवपुषि सकलवेदेति-

हासस्वरूपे तव निःश्वसिते नाभीसरोरुहमेव नवारुणमण्डलं

तत्र च संचारशालि संचारेण श्लाघ्यं श्रेष्ठं वा । तदुभये