This page has not been fully proofread.

११८
 
षाठ: प्रत्याख्यातः । तत्पक्षे ' यौवनचक्षुषाम् ' इति पठनीयम् ॥
 
निःश्वासमन्दमलयानिलकन्द लेन
निर्हारिणा बहुतरेण च सौरभेण ।
नासापुटौ नलिनलोचन ते मनोज्ञौ
मन्ये सदैव मधुमाधवयोर्निवासौ ॥९८ ॥
 
हे नलिनलोचन, ते मनोज्ञौ नासापुटौ सदा नित्यमेव मधु-
माधवयोः वसन्तर्तुमासयो: निवासौ मन्ये । अत्र स्वरूपो-
त्प्रेक्षायां निमित्तमुच्यते - निःश्वास एव मन्दमलयानिलः तस्म
कन्दलेनाङ्कुरेण निर्हारिणा दूरं विसृमरेण बहुतरेण सौरभेण
च । 'समाकर्षी तु निर्हारी' इत्यमरः । उत्प्रेक्षाया नि:-
श्वासमन्दमलयानिलेति रूपकेण संकरः ॥ ९८ ॥
 
संचारशालि तव निःश्वसिते समस्त-
वेदेतिहासवपुषि द्विपशैलनाथ ।
नाभीसरोरुहनवारुणमण्डले च
 
मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९९ ॥
 
हे द्विपशैलनाथ, समस्तवेदेतिहासवपुषि सकलवेदेति-
हासस्वरूपे तव निःश्वसिते नाभीसरोरुहमेव नवारुणमण्डलं
तत्र च संचारशालि संचारेण श्लाघ्यं श्रेष्ठं वा । तदुभये