This page has been fully proofread once and needs a second look.

११७
 
वद्विश्रान्तिस्थानभूता विधुकरप्रकरावदाता चन्द्राकरणच्छटेव

शुभ्रा तवेयं मन्दस्मितच्छवि: मां पुनातु । योगिनां मनांसि

भगवतः सर्वावयवानारोहावरोहक्रमेण चिरमनुसंधाय मन्द-

स्मितचन्द्रिकायां पश्चाञ्चिरमवतिष्ठन्ते, "तस्मिमिंल्लब्धपदं चित्तं

सर्वावयवसंस्थितम् । विलोक्यैकत्र संयुज्यादङ्गे भगवतो

हरेः ॥ ' इति, 'एकैकशोऽङ्गानि धिया विभावयेत्पादादि

यावद्धूसितं गदाभृतः । जितं जितं स्थानमपोह्य धारयेत्परं

परं शुष्ध्यति धीर्यथा यथा ॥' इति च भागवतवचनात् । का-

मिनीनां चक्षूंष्यपि नायकस्य सर्वेष्ववयवेषु चरित्वा नितान्तं

मदनोद्दीपकसाकूतमन्दस्मिते चिरस्थायितां प्राप्नुवन्तीति वि-

श्रान्तिभूरित्युक्तम् । अत्र योगिमनसां कामिनीचक्षुषां च

गतागताचरणलक्षणैकक्रियायोगात् उभयोश्च भगवतो मुमुक्षु-

ध्येयपरब्रह्मभावे सौन्दर्यातिशये च वर्णनीये उपयोगित्वेन

प्रस्तुतत्वाविशेषाञ्च्च तुल्ययोगितालंकारः । युवतिशब्दात्समू-

हार्थे ' भिक्षादिभ्योऽण्' इत्यण्प्रत्यये यौवतमिति रूपम् ।

' भस्याढे तद्धिते' इति पुंवद्भावस्तु न भवति, युवति

शब्दस्य भिक्षादिषु पाठसामर्थ्यात् ' तस्य समूह : ' इत्येव

युवतिशब्दात्प्राग्दीव्यतीये सिद्धेऽप्यण्प्रत्यये तस्य भिक्षादि-

गणपाठस्य पुंवद्भावपालनार्थत्वात् । भाष्यवार्त्तिकयोस्तु समू-

हार्थे यौवनमित्येव रूपमङ्गीकृत्य युवतिशब्दस्य भिक्षादिगणे