This page has been fully proofread once and needs a second look.

११६
 
-
 
ते तवाधर एव रत्नपात्रं तस्मिन् सिद्धौषधं जयति । येन

व्याधिः शीघ्रं शाम्यतीत्यनुभवसिद्धं तत्सिद्धौषधमित्युच्यते ।

मन्दस्मितं तथात्वेनाध्यवसितम् । तस्य सिद्धौषधत्वमेवोप-

पाद्यते -- येन सिक्तं तापत्रयी झटिति मुञ्चति । अथैतन्नारा-

यणतैलादिवत्पाकसिद्धं कल्पयित्वा तदुपजीव्योत्प्रेक्ष्यते -- हे

वारिजविलोचन, तुषारकिरणं गुणलेशयोगात् किंचिदाधि-

भौतिकतापहरे तस्मिन्नेतदीयगुणलवयोगात् अस्यैव सिद्धौष-

धस्य कल्कपुञ्जं तैलस्य निष्पीडनात्सिद्धं सहपक्मूलिकादि-

कल्कसंघं पिण्डीभूतं मन्ये । कल्केऽपि हि किंचिल्लेशतस्तैल-

गुणानुवृत्तिरस्ति । अत्र अधररत्नपात्र इति रूपकम् । सिद्धौ-

षधमित्यतिशयोक्तिः । तापत्रयीत्यादिवाक्ये काव्यलिङ्गम् ।

उत्तरत्र तैरुत्थापिता स्वरूपोत्प्रेक्षेति संकरः ॥ ९६ ॥
 

 
आतन्वतामवयवेषु गतागतानि

युक्तात्मनां वरद यौवतचक्षुषां च ।

विश्रान्तिभूर्विधुकरप्रकरावदाता

मन्दस्मितच्छविरियं तव मां पुनातु ॥
 

 
हे वरद, तवावयवेषु गतागतानि आतन्वतां युक्तात्मनां

भगवन्मूर्तिध्यानपराणां योगिमनसां यौवतचक्षुषां युवति-

समूहचक्षुषां च विश्रान्तिभूः गतागतानि कुर्वतां छायावृक्ष-