This page has not been fully proofread.

११६
 
-
 
ते तवाधर एव रत्नपात्रं तस्मिन् सिद्धौषधं जयति । येन
व्याधिः शीघ्रं शाम्यतीत्यनुभवसिद्धं तत्सिद्धौषधमित्युच्यते ।
मन्दस्मितं तथात्वेनाध्यवसितम् । तस्य सिद्धौषधत्वमेवोप-
पाद्यते - येन सिक्तं तापवयी झटिति मुञ्चति । अथैतन्नारा-
यणतैलादिवत्पाकसिद्धं कल्पयित्वा तदुपजीव्योत्प्रेक्ष्यते - हे
वारिजविलोचन, तुषारकिरणं गुणलेशयोगात् किंचिदाधि-
भौतिकतापहरे तस्मिन्नेतदीयगुणलवयोगात् अस्यैव सिद्धौष-
धस्य कलकपुञ्ज तैलस्य निष्पीडनात्सिद्धं सहपक्कमूलिकादि-
कल्कसंघं पिण्डीभूतं मन्ये । कल्केऽपि हि किंचिल्लेशतस्तैल-
गुणानुवृत्तिरस्ति । अत्र अधररत्नपात इति रूपकम् । सिद्धौ-
षधमित्यतिशयोक्तिः । तापत्रयीत्यादिवाक्ये काव्यलिङ्गम् ।
उत्तरव तैरुत्थापिता स्वरूपोत्प्रेक्षेति संकरः ॥ ९६ ॥
 
आतन्वतामवयवेषु गतागतानि
युक्तात्मनां वरद यौवतचक्षुषां च ।
विश्रान्तिभूर्विधुकरप्रकरावदाता
मन्दस्मितच्छविरियं तव मां पुनातु ॥
 
हे वरद, तवावयवेषु गतागतानि आतन्वतां युक्तात्मनां
भगवन्मूर्तिध्यानपराणां योगिमनसां यौवतचक्षुषां युवति-
समूहचक्षुषां च विश्रान्तिभूः गतागतानि कुर्वतां छायावृक्ष-