This page has been fully proofread once and needs a second look.

११५
 
एते कडङ्गरचया इव विप्रकीर्णा
 

जैवातृकस्य किरणा जगति भ्रमन्ति
 

 
तापत्रयमाध्यात्मिकादिभेदभिन्नं
 
तस्यौषधवरस्य तच्छा-

न्त्यर्थदिव्यौषधस्य निःश्वासरूपेण मन्दमरुता निबुसीकृतस्य,

बुसम् अन्तस्तण्डुलादिबीजरहितमुपरित्वङ्यामात्ररूपं धान्यं

खले बलीवर्दपदैर्घट्टितेन धान्यस्तम्बक्षोदादिना सहितम् ।

'कडङ्गरो बुसं क्लीबे' इत्यमरः । बुसमिश्रितं धान्यं मारु-

तवति प्रदेशे पवनक्रियया बुसरहितं कुर्वन्ति । तथा कृतस्य

तव स्मितस्य विप्रकीर्णाः कडङ्गरचया इव मारुतेन धान्य-

राशेः पृथक्कृत्य तत्र तत्र नीता बुसनिकरा इव एते जैवा-

तृकस्य चन्द्रस्य किरणा जगति भ्रमन्ति । कडङ्गरा अपि

अन्तस्तण्डुलरहिता लघुत्वेन वायुवशात्तत्र तत्र भ्रमन्ति ।

अत्रौषधवरस्येति रूपकम् । निबुसीकृतस्येति तदुत्थापिता-

तिशयोक्तिः । कडङ्गरचया इवेति ताभ्यामुत्थापिता स्वरूपो-

त्प्रेक्षा । तैरनुप्राणितस्त्वप्रस्तुतप्रशंसालंकारः ॥ ९५ ॥

 
सिद्धौषधं जयति तेऽधररत्नपात्रे
 

तापत्रयी झटिति मुञ्चति येन सिक्तम् ।

मन्ये तुषारकिरणं गुणलेशयोगा
 
-
दस्यैव वारिजविलोचन कल्कपुञ्जम् ॥