This page has not been fully proofread.

११५
 
एते कडङ्गरचया इव विप्रकीर्णा
 
जैवातृकस्य किरणा जगति भ्रमन्ति ।
 
तापत्रयमाध्यात्मिकादिभेदभिन्नं
 
तस्यौषधवरस्य तच्छा-
न्त्यर्थदिव्यौषधस्य निःश्वासरूपेण मन्दमरुता निबुसीकृतस्य,
बुसम् अन्तस्तण्डुलादिबीजरहितमुपरित्वङ्यात्ररूपं धान्यं
खले बलीवपदैर्घट्टितेन धान्यस्तम्बक्षोदादिना सहितम् ।
'कडङ्गरो बुसं क्लीबे' इत्यमरः । बुसमिश्रितं धान्यं मारु-
तवति प्रदेशे पवनक्रियया बुसरहितं कुर्वन्ति । तथा कृतस्य
तव स्मितस्य विप्रकीर्णाः कडङ्गरचया इव मारुतेन धान्य-
राशेः पृथक्कृत्य तत्र तत्र नीता बुसनिकरा इव एते जैवा-
तृकस्य चन्द्रस्य किरणा जगति भ्रमन्ति । कडङ्गरा अपि
अन्तस्तण्डुलरहिता लघुत्वेन वायुवशात्तत्र तत्र भ्रमन्ति ।
अत्रौषधवरस्येति रूपकम् । निबुसीकृतस्येति तदुत्थापिता-
तिशयोक्तिः । कडङ्गरचया इवेति ताभ्यामुत्थापिता स्वरूपो-
त्प्रेक्षा । तैरनुप्राणितस्त्वप्रस्तुतप्रशंसालंकारः ॥ ९५ ॥
सिद्धौषधं जयति तेऽधररलपात्रे
 
तापवयी झटिति मुञ्चति येन सिक्तम् ।
मन्ये तुषारकिरणं गुणलेशयोगा
 
दस्यैव वारिजविलोचन कल्कपुञ्जम् ॥