This page has been fully proofread once and needs a second look.

११४
 
वृत्ति बिम्बत्वं युक्तमेव । एतावतैव त्वं बिम्बाधर इति कवि-

भिर्वर्ण्यसे, न तु तुच्छफलोपमानात् अतिक्षुद्रबिम्बाख्यफल -

सादृश्यात् । अधिकव्यतिरेकालंकारोऽपह्नुतिविशेषगर्भः ॥

 
विद्यामयेषु तव निःश्वसितेष्वपूर्
वं
विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।

वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः

कायप्रभेव लसति स्मितचन्द्रिका ते ॥
 
,
 

 
हे अन्तरात्मन्, ते तव स्मितचन्द्रिका विद्यामयेषु 'अस्य

महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः

इत्यादिश्रुतेः सकलविद्यारूपेषु तव निःश्वसितेषु अपूर्वं प्राग-

गृहीतं विद्याविशेषं शिक्षितुं प्ग्रहीतुमिव ।' शिक्ष विद्योपादाने'

इति धातुः । सदा तव मुखाम्बुरुहे वसन्त्याः वाण्याः कायप्र-

भेव लसति । अत्र शिक्षितुमिवेति फलोत्प्रेक्षा । वाण्या इति

कवितादिरूपायां वाचि मूर्तिमत्सरस्वतीतादात्म्याध्यवसायरूपा-

तिशयोक्तिः । ताभ्यां कायप्रमेवेति स्वरूपोत्प्रेक्षायाः संकरः ।

मुखाम्बुरुहेति स्मितचन्द्रिकेत्युपमाभ्यां संसृष्टिः ॥ ९४ ॥
 

 
तापत्रयोयौषधवरस्य तव स्मितस्य

निःश्वासमन्दमरुता निबुसीकृतस्य ।