This page has not been fully proofread.

११४
 
वृत्ति बिम्बत्वं युक्तमेव । एतावतैव त्वं बिम्बाधर इति कवि-
भिर्वर्ण्यसे, न तु तुच्छफलोपमानात् अतिक्षुद्रबिम्बाख्यफल -
सादृश्यात् । अधिकव्यतिरेकालंकारोऽपह्नुतिविशेषगर्भः ॥
विद्यामयेषु तव निःश्वसितेष्वपूर्व
विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।
वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः
कायप्रभेव लसति मितचन्द्रिका ते ॥
 
,
 
हे अन्तरात्मन्, ते तव स्मितचन्द्रिका विद्यामयेषु 'अस्य
महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः
इत्यादिश्रुतेः सकलविद्यारूपेषु तव निःश्वसितेषु अपूर्व प्राग-
गृहीतं विद्याविशेषं शिक्षितुं प्रहीतुमिव ।' शिक्ष विद्योपादाने'
इति धातुः । सदा तव मुखाम्बुरुहे वसन्त्याः वाण्याः कायप्र-
भेव लसति । अत्र शिक्षितुमिवेति फलोत्प्रेक्षा । वाण्या इति
कवितादिरूपायां वाचि मूर्तिमत्सरस्वतीतादात्म्याध्यवसायरूपा-
तिशयोक्तिः । ताभ्यां कायप्रमेवेति स्वरूपोत्प्रेक्षायाः संकरः ।
मुखाम्बुरुहेति स्मितचन्द्रिकेत्युपमाभ्यां संसृष्टिः ॥ ९४ ॥
 
तापत्रयोषधवरस्य तव स्मितस्य
निःश्वासमन्दमरुता निबुसीकृतस्य ।