This page has been fully proofread once and needs a second look.

११३
 
हे वरद, त्वदीयं मुखं संहतं परस्पर मेलनेनैकीभूतम्

अब्जयोः पद्मचन्द्रयोः युग्मं शङ्कामहे इत्युत्प्रेक्षा । तथोत्प्रे -

क्षानिमित्ततया भगवन्मुखे पद्मचन्द्रोभयगुणयोगो विशेषणैः

प्रदर्श्यते -- आमोदकान्तिभृत् आमोदमात्रं पद्मे कान्तिमात्रं

चन्द्रे । मुखं तु तदुभयशालि । अहर्निशमेकरूपम् अहन्येव

पद्मस्य प्रसादः रात्रावेव चन्द्रस्य । अह्नि रात्रावपि मुखस्य ।

पद्मं द्विजगणैः पक्षिगणैरासेवितं चन्द्रो दिविषद्गणैरमृतं पि-

बद्भिः । इदं तु ब्राह्मणगणैर्देवगणैश्चासेवितम् । पद्ममकाधिरूढ-
लक्ष्मीकं चन्द्रः सहोदरलक्ष्मीकः । इदं तु अड्डाधिरूढ
समीपदेशव्याप्ता सहजा आजानसिद्धा श्री कान्तिर्यस्येति
व्युत्पत्त्या अ
ङ्काधिरूढ-
लक्ष्मीकं चन्द्रः सहोदरलक्ष्मीकः । इदं तु अङ्काधिरूढा
समीपदेशव्याप्ता सहजा आजानसिद्धा श्री कान्तिर्यस्येति
व्युत्पत्त्या अङ्काधिरूढ
सहजश्रि । 'अङ्क: समीप उत्स के
ङ्गे
चिह्ने स्थानावमानयोः' इति केशवः । 'सहजं निजमाजा-

नम्' इति यादवः । अतोत्रोत्प्रेक्षाया द्विजाङ्क सहजश्रीशब्दश्ले -
वे

षे
ण संकरः ॥ ९२ ॥
 
6
 

 
बिम्बस्तवायमधरः प्रतिबिम्बनेन

युक्तं सदा युवतिमान सदर्पणेषु ।

बिम्बाधर: कविभिरीश्वर वर्ण्य से त्व-

मेतावतैव न तु तुच्छफलोपमानात् ॥
 

 
हे ईश्वर, तवायमधरो बिम्ब: । युक्तम् । केन हेतुना ?

सदा युवतिमानसदर्पणेषु प्रतिबिम्बनेन । यावत्प्रतिबिम्बानु-
V. 8.