This page has not been fully proofread.

११३
 
हे वरद, त्वदीयं मुखं संहतं परस्पर मेलनेनैकीभूतम्
अब्जयोः पद्मचन्द्रयोः युग्मं शङ्कामहे इत्युत्प्रेक्षा । तथोत्प्रे -
क्षानिमित्ततया भगवन्मुखे पद्मचन्द्रोभयगुणयोगो विशेषणैः
प्रदर्श्यते - आमोदकान्तिभृत् आमोदमात्रं प कान्तिमात्रं
चन्द्रे । मुखं तु तदुभयशालि । अहर्निशमेकरूपम् अहन्येव
पद्मस्य प्रसादः रात्रावेव चन्द्रस्य । अह्नि रात्रावपि मुखस्य ।
पद्मं द्विजगणैः पक्षिगणैरासेवितं चन्द्रो दिविषद्गणैरमृतं पि-
बद्भिः । इदं तु ब्राह्मणगणैर्देवगणैश्चासेवितम् । पद्ममकाधिरूढ-
लक्ष्मीकं चन्द्रः सहोदरलक्ष्मीकः । इदं तु अड्डाधिरूढ
समीपदेशव्याप्ता सहजा आजानसिद्धा श्री कान्तिर्यस्येति
व्युत्पत्त्या अङ्काधिरूढसहजश्रि । अङ्क: समीप उत्स के
चिह्ने स्थानावमानयोः' इति केशवः । सहजं निजमाजा-
नम्' इति यादवः । अतोत्प्रेक्षाया द्विजाङ्क सहजश्रीशब्दले -
वेण संकरः ॥ ९२ ॥
 
6
 
बिम्बस्तवायमधरः प्रतिबिम्बनेन
युक्तं सदा युवतिमान सदर्पणेषु ।
बिम्बाधर: कविभिरीश्वर वर्ण्य से त्व-
मेतावतैव न तु तुच्छफलोपमानात् ॥
 
हे ईश्वर, तवायमधरो बिम्ब: । युक्तम् । केन हेतुना ?
सदा युवतिमानसदर्पणेषु प्रतिबिम्बनेन । यावत्प्रतिबिम्बानु-
V. 8.