This page has been fully proofread once and needs a second look.

११२
 
मधुलिहा हि पद्मस्य कलङ्केन चन्द्रस्य च मालिन्यं प्रसिद्ध-

मेव । तौ मधुलिट्कलङ्कौ तव मुखे तु दृक्तिलकात्मना दृगा-

त्मना मधुलिट् तिलकात्मना कलङ्कश्च आभां शोभामेव धत्तः ।

एकैकस्यापि दोषत्वे कथमुभयं मिलितं गुणः स्यादिति शङ्का-

यां तदुपपाद्यते –- दोषावपि सन्तौ मेलनतो मेलनेन हेतुना

क्
वचन गुणत्वम् इतः प्राप्नुतः । वक्तुर्वचासचसि यथा भ्रमविप्र-

लम्भौ वक्तुः केवलं भ्रमः केवलं विलम्भश्च वाक्यस्याप्रा-

माण्यावहो दोषो भवति । उभौ मिलितौ तत्प्रामाण्यावहतया

गुणत्वमेव भजतः । यथा विप्रलम्भकः सत्येव सद्मनि देव-

दत्ते स नास्तीति भ्राम्य-सन्सद्मनि देवदत्तोऽस्तीति परं बोधयति

तद्वा
क्यं प्रमाणमेव भवति । अत्र प्रथमप्रदर्शितविशेषोपपाद-
नार्थ

नार्थं
सामान्यमुपन्यस्य तत्राप्युपपादनापेक्षायां तदुपपादनार्
थं
विशेषान्तरस्योपमानत्वेन निब-न्धनाद्विकस्वरालंकारः । 'यस्मि-

न्
विशेष सामान्यविशेषाः स विकस्वरः । स न जिग्ये महा-

न्
तो हि दुर्धर्षाः सागरा इव ॥' इति तल्लक्षणोदाहरणे ॥
 

 
आमोदकान्तिभृदहर्निश मेकरूप-

मासेविनं द्विजगणैर्दिविषद्गुणैश्च ।

अङ्काविधिरूढसहजचिश्रि मुखं त्वदीयं
 

शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९२ ॥