This page has not been fully proofread.

११२
 
मधुलिहा हि पद्मस्य कलङ्केन चन्द्रस्य च मालिन्यं प्रसिद्ध-
मेव । तौ मधुलिट्कलङ्कौ तव मुखे तु हक्तिलकात्मना हगा-
त्मना मधुलिट् तिलकात्मना कलङ्कश्च आभां शोभामेव धत्तः ।
एकैकस्यापि दोषत्वे कथमुभयं मिलितं गुणः स्यादिति शङ्का-
यां तदुपपाद्यते – दोषावपि सन्तौ मेलनतो मेलनेन हेतुना
वचन गुणत्वम् इतः प्राप्नुतः । वक्तुर्वचास यथा भ्रमविप्र-
लम्भौ वक्तुः केवलं भ्रमः केवलं विलम्भश्च वाक्यस्याप्रा-
माण्यावहो दोषो भवति । उभौ मिलितौ तत्प्रामाण्यावहतया
गुणत्वमेव भजतः । यथा विप्रलम्भकः सत्येव सद्मनि देव-
दत्ते स नास्तीति भ्राम्य-समनि देवदत्तोऽस्तीति परं बोधयति
क्यं प्रमाणमेव भवति । अत्र प्रथमप्रदर्शितविशेषोपपाद-
नार्थ सामान्यमुपन्यस्य तत्राप्युपपादनापेक्षायां तदुपपादनार्थ
विशेषान्तरस्योपमानत्वेन निब-धनाद्विकस्वरालंकारः । 'यस्मि-
विशेष सामान्यविशेषाः स विकस्वरः । स न जिग्ये महा-
तो हि दुर्धर्षाः सागरा इव ॥' इति तल्लक्षणोदाहरणे ॥
 
आमोदकान्तिभृदहर्निश मेकरूप-
मासेविनं द्विजगणैर्दिविषद्गुणैश्च ।
अङ्काविरूढसहजचि मुखं त्वदीयं
 
शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९२ ॥