This page has been fully proofread once and needs a second look.

१११
 
तत्स्वार्थबाधादतिस्पष्टं बोधयतीत्यर्थे पर्यवसितम् ॥ ८९ ॥
हर

 
दृग्
भ्या मुकुन्द मृगलोचनकोमलाभ्यां

जाताधिककृद्युति विलोक्य तवाननाब्जम् ।

मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सु-
स्तम्

स्तस्
मिन्बिभर्ति मृगमेव जडः सितांशुः ॥

 
हे मुकुन्द, मृगलोचनाभ्यामिव कोमलाभ्यां मनोहराभ्यां

दृग्भ्यां तवाननाब्जं मुखं जाताधिकद्युति संभूताधिककान्तिकं

जडः शिशिर: अज्ञश्च सितांशुश्चन्द्रः विलोक्य स्वमण्डलम्

इतः त्वन्मुखादपि अधिकं विधित्सुः सन् तस्मिन्स्वमण्डले

मृगमेव बिभर्तीति मन्ये । मृगलोचनसदृशाभ्यां लोचनाभ्या-

मेव कान्तिर्भवति न तु कृत्स्नेन मृगेणेति विवेकरहितश्चन्द्रो

मृगमेव बिभर्तीति भावः । अलोत्रोपमानुप्राणिता फलोत्प्रेक्षा ।

ततः पूर्ववदप्रस्तुत प्रशंसालंकारः ॥ ९० ॥
 

 
मालिन्यमन्जाब्जशशिनोर्मधुलिट्रकलङ्कौ
 

धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् ।

दोषावितः वचन मेलनतो गुणत्वं

वक्तुर्गधेयथेश वचसि भ्रमविप्रलम्भौ ॥
 

 
हे ईश, मधुलिट्कलङ्कौ अब्जशशिनोः मालिन्यं धत्तः ।