This page has not been fully proofread.

१११
 
तत्स्वार्थबाधादतिस्पष्टं बोधयतीत्यर्थे पर्यवसितम ॥ ८९ ॥
हरभ्या मुकुन्द मृगलोचनकोमलाभ्यां
जाताधिककृति विलोक्य तवाननाब्जम् ।
मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सु-
स्तम्मिन्बिभर्ति मृगमेव जडः सितांशुः ॥
हे मुकुन्द, मृगलोचनाभ्यामिव कोमलाभ्यां मनोहराभ्यां
दृग्भ्यां तवाननाब्जं मुखं जाताधिकयुति संभूताधिककान्तिकं
जडः शिशिर: अज्ञश्च सितांशुश्चन्द्रः विलोक्य स्वमण्डलम्
इतः त्वन्मुखादपि अधिकं विधित्सुः सन् तस्मिन्स्वमण्डले
मृगमेव बिभर्तीति मन्ये । मृगलोचनसदृशाभ्यां लोचनाभ्या-
मेव कान्तिर्भवति न तु कृत्स्नेन मृगेणेति विवेकरहितश्चन्द्रो
मृगमेव बिभर्तीति भावः । अलोपमानुप्राणिता फलोत्प्रेक्षा ।
ततः पूर्ववदप्रस्तुत प्रशंसालंकारः ॥ ९० ॥
 
मालिन्यमन्जाशिनोर्मधुलिट्रकलङ्कौ
 
धत्तो मुखे तु तव हक्तिलकात्मनाभाम् ।
दोषावितः वचन मेलनतो गुणत्वं
वक्तुर्गधेश वचसि भ्रमविप्रलम्भौ ॥
 
हे ईश, मधुलिट्कलङ्कौ अब्जशशिनोः मालिन्यं धत्तः ।