This page has been fully proofread once and needs a second look.

११०
 
परिकल्प्य तत्किरणजालस्य कमलमुकुलविकासकस्य चन्द्रानुप्र-
खे

वे
शं च सुहृत्पाणेर्भगव-न्मुखलक्ष्मीनिधानकोशगृहमुद्रामोचनपू-

र्
वकं ततो गृहीतभगव-न्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्प-

र्शरूपं च परिकल्य एतात्रतापि प्रयत्नेन पौर्णमास्यामेव भग-

वन्मुख साम्यरूपेष्ट प्राप्तिजप्राप्तिर्जायते न सार्वकालिकीति प्रतिपादना-

दिष्टार्थं समुद्यतस्य परिपूर्णतत्प्राप्त्यभावरूपो विषमालंकारभेदः ।

त्वद्वक्त्रसाम्यं लब्ध्वेति प्रसिद्धोपमानस्योपमेयत्वकल्पनात्प्र-

तीपालंकारः । कोशमुद्राशब्दयोः श्लेमूलातिशयोक्त्यलंकारः ।

कमलमुकुलविकासनस्य तत्रत्यभगवन्मुखलक्ष्मीग्रहणार्थसुहृत्क-

रव्यापारत्वस्य तद्विकासक सूर्यकिरणजालगतचन्द्रानु प्रवेशस्य

गृहीतया भगवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थसुहृत्करव्यापार-

त्वस्य च परिकल्पनरूपातिशयोक्तिः । शंसतीत्यनेन स्वयं दृ-

ष्टान्तो भूत्वा अन्यायोपार्जिता श्रीराशुनाशेति परान्बोधय-

तीति प्रतिपादनादसंभवद्वस्तुसंबन्धनिबन्धनो निदर्शनाभेदः ।

एवम प्रस्तुतचन्द्रवृत्तान्तवर्णनेन स्वयं दृष्टान्तो भूत्वा वर्णनीय
-
त्वेन प्रस्तुतो भगवन्मुखशोभातिशयः प्रतीयत इत्य प्रस्तुतप्रशं-

सालंकार इत्येतेषां संकर: । 'निदर्शना स्वक्रियया परेषां बो-

धनं मतम् । नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥
'
इत्यसंभव द्वस्तुसंबन्धनिबन्धननिदर्शनाया लक्षणोदाहरणे । अत्र

नश्येदिति बोधयदित्यस्य गम्यमानत्वादप्रयोग: । शंसतीत्ये
 
-