This page has not been fully proofread.

११०
 
परिकल्प्य तत्किरणजालस्य कमलमुकुलविकासकस्य चन्द्रानुप्र-
खेशं च सुहृत्पाणेर्भगव-मुखलक्ष्मीनिधानकोशगृहमुद्रामोचनपू-
वकं ततो गृहीतभगव-मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्प-
र्शरूपं च परिकल्य एतात्रतापि प्रयत्नेन पौर्णमास्यामेव भग-
वन्मुख साम्यरूपेष्ट प्राप्तिजयते न सार्वकालिकीति प्रतिपादना-
दिष्टार्थं समुद्यतस्य परिपूर्णतत्प्रात्यभावरूपो विषमालंकारभेदः ।
त्वद्वक्त्रसाम्यं लब्ध्वेति प्रसिद्धोपमानस्योपमेयत्वकल्पनात्प्र-
तीपालंकारः । कोशमुद्राशब्दयोः श्लेपमूलातिशयोक्त्यलंकारः ।
कमलमुकुलविकासनस्य तत्रत्यभगवन्मुखलक्ष्मीग्रहणार्थसुहृत्क-
रव्यापारत्वस्य तद्विकासक सूर्यकिरणजालगतचन्द्रानु प्रवेशस्य
गृहीतया भगवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थसुहृत्करव्यापार-
त्वस्य च परिकल्पनरूपातिशयोक्तिः । शंसतीत्यनेन स्वयं दृ-
ष्टान्तो भूत्वा अन्यायोपार्जिता श्रीराशुनाशेति परान्बोधय-
तीति प्रतिपादनादसंभवद्वस्तुसंबन्धनिबन्धनो निदर्शनाभेदः ।
एवम प्रस्तुतचन्द्रवृत्तान्तवर्णनेन स्वयं दृष्टान्तो भूत्वा वर्णनीय
त्वेन प्रस्तुतो भगवन्मुखशोभातिशयः प्रतीयत इत्य प्रस्तुतप्रशं-
सालंकार इत्येतेषां संकर: । 'निदर्शना स्वक्रियया परेषां बो-
धनं मतम् । नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥
इत्यसंभव द्वस्तुसंबन्धनिबन्धननिदर्शनाया लक्षणोदाहरणे । अत्र
नश्येदिति बोधयदित्यस्य गम्यमानत्वादप्रयोग: । शंसतीत्ये