This page has been fully proofread once and needs a second look.

भगवन्मुखमेव चन्द्राणां सुदृहृन्न मुखान्तराणीति तस्येतरमुखे-

भ्यो व्यतिरेकोऽपि व्यञ्जितः । ततश्च तस्मिन्नेव चन्द्राणां

सर्वेषां स्वस्वयावल्लावण्यपुण्यविन्यसनेनोत्प्रेक्ष्यमाणेन कारणेन

तत्कार्यं भगवन्मुखस्यानन्तकोटिचन्द्रलावण्यशालित्वं
वर्णनी-
यतया प्रकृतं प्रतीयत इत्यप्रस्तुतप्रशंसालंकारः ॥
 
वर्णनी
८८ ॥
 

 
त्वद्वक्रमाम्यमयमम्बुजकोशमुद्रा-

भङ्गान्त्ततत्सुषममित्रकरोपक्कृलृप्त्या ।

लब्ध्वापि पर्वणि विधुः क्रमहीयमानः

शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥
 

 
अयं विधुः प्रसिद्धश्चन्द्रः पर्वणि पूर्णिमायाम् अम्बुजस्य

कोश: कुट्मलः स एव अम्बुज रूपभाण्डागारं तस्य मुद्रा

मुकुलीभावो मुद्रणं च तस्य भनेङ्गेन विकासनात्मकेन, तातद्वारे-

त्यर्थः । आत्ता गृहीता तत्सुषमा तच्छोभा यैस्तादृशा ये मि
-
त्रकरा: सूर्यकिरणाः सुहृत्पाणयञ्श्च तेषामुपक्लृप्त्या लाभेन

त्वद्वक्त्रस्य साम्यं लब्ध्वा प्राप्यापि क्रमेण हीयमानः क्षीय-

माणः सन् स्त्रयमनीत्योपचितामन्यायेन वर्धितां श्रियम् आशु

नाशो यस्यास्तामाशुनाशां शीघ्रनाशां शंसति । अत्र चन्द्रस्य

भगवन्मुखलक्ष्मीं लिप्समानस्य सुहृत्त्वेन सूर्यं मित्रशब्दश्लेषेण