This page has not been fully proofread.

भगवन्मुखमेव चन्द्राणां सुदृन्न मुखान्तराणीति तस्येतरमुखे-
भ्यो व्यतिरेकोऽपि व्यञ्जितः । ततश्च तस्मिन्नेव चन्द्राणां
सर्वेषां स्वस्वयावल्लावण्यपुण्यविन्यसनेनोत्प्रेक्ष्यमाणेन कारणेन
तत्कार्य भगवन्मुखस्यानन्तकोटिचन्द्रलावण्यशालित्वं
यतया प्रकृतं प्रतीयत इत्यप्रस्तुतप्रशंसालंकारः ॥
 
वर्णनी
८८ ॥
 
त्वद्वक्रमाम्यमयमम्बुजकोशमुद्रा-
भङ्गान्ततत्सुषममित्रकरोपक्कृप्त्या ।
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः
शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥
 
अयं विधुः प्रसिद्धश्चन्द्रः पर्वणि पूर्णिमायाम् अम्बुजस्य
कोश: कुट्मलः स एव अम्बुज रूपभाण्डागारं तस्य मुद्रा
मुकुलीभावो मुद्रणं च तस्य भनेन विकासनात्मकेन, तारे-
त्यर्थः । आत्ता गृहीता तत्सुषमा तच्छोभा यैस्तादृशा ये मि
त्रकरा: सूर्यकिरणाः सुहृत्पाणयञ्च तेषामुपलप्त्या लाभेन
त्वद्वक्त्रस्य साम्यं लब्ध्वा प्राप्यापि क्रमेण हीयमानः क्षीय-
माणः सन् स्त्रयमनीत्योपचितामन्यायेन वर्धितां श्रियम् आशु
नाशो यस्यास्तामाशुनाशां शीघ्रनाशां शंसति । अत्र चन्द्रस्य
भगवन्मुखलक्ष्मीं लिप्समानस्य सुहृत्त्वेन सूर्य मित्रशब्दश्लेषेण